Summary: | विवेकचूडामणौ भगवता शङ्करेणोक्तमस्ति –
जन्तूनां नरजन्मदुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात् परम्।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतकोटिजन्मसुकृतैः पुण्यै र्विना लभ्यते॥ विवेकचूडामणिः / २॥
इदमत्रावधेयं संसारेऽस्मिन् नरजन्म सर्वथा दुर्लभम् । परं दुर्लभे नरजन्मनि प्राप्तेऽपि यदि तदासाद्यदुर्लभतमात्मसाक्षात्काररूपमोक्षप्राप्तिः नैवासाद्येत न वा तन्निमित्तोपाययत्नादि विधीयेत तदा निष्फलम् हि तन्नरजन्मेति भगवत्पादैः संशितम् –
लब्ध्वा कथंचित् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्।
यस्स्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ विवेकचूडामणिः/४॥
शाश्वतसत्यदर्शनरूपार्थनिश्चयश्च सम्यग्विचारेणैव सम्पद्यते । तदुक्तं भगवत्पादेन शङ्करेण-
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ विवेकचूडामणिः /१३॥
सम्यग्विचाराश्च विज्ञानेनासाद्याः। विज्ञानं हि मानवस्य परमपदप्राप्तिद्वारभूतमिति जीवनस्य श्रेष्ठं साधनम् । तदुक्तं गरुडपुराणे –
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभग्नमानैः ।
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ गरुडपुराणम्/१.११५.३३ ॥
तदेव विज्ञानं शास्त्रोपचारद्वारा जने जने सञ्चारयितुं शास्त्रमञ्जूषां पुरस्करोति “प्राची प्रज्ञा” । शास्त्रमञ्जूषाया अस्मिन्नङ्के वेदः, वेदाङ्गानि, दर्शनानि, स्मृतिशास्त्रं, व्याकरणं, कोषः, काव्यं, साहित्यम्, अर्थशास्त्रं, समाजशास्त्रं, संस्कृतिः, पाण्डुलिपिविज्ञानं, शोधप्रविधिविज्ञानं चेत्यादीन् विज्ञानस्य विविधान् आयामान् आधृत्य 32 शोधपत्राणि प्रस्तूयन्ते ।
सुज्ञानकुमारमाहान्तिः
|