Summary: | जिज्ञासा, गूढदार्शनिकविचारा:, सत्यान्वेषणशीलता, ब्रह्माण्डरहस्यविषये कुतूहलता च मानवस्य स्वाभाविकी प्रवृत्तिरेव , तस्यादिमं प्रमाणम् ऋग्वेदस्य नासदीयसूक्तं, तत्रापि अयं मन्त्रभाग: को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टि:। ऋग्वेदः ॥१०-१२९- ६॥ इति वैदिकर्षीणामाचार्याणां दार्शनिकचिन्तनस्य मूलं स्रोत: इति प्रतिभाति । दृश्यते ज्ञायते अनेन इति दर्शनम् ? दर्शनं नाम येन इदं विश्वम्, ब्रह्म, जीवात्मा, प्रकृतिश्च, निखिलमेतद् याथातथ्येन दृश्यते निरीक्ष्यते परीक्ष्यते समीक्ष्यते विविच्यते च तद् दर्शनम् । किमिदं सुखम् ? किमिदं दु:खम् ? दु:खनिवृत्तिरुपाय: क: ? जगति किं शाश्वतं तत्त्वम् ? इयं सृष्टिः कुत आबभूव? जीवात्मनः किं स्वरूपम् ? कः पुनर्जायते ? किं जननम्? किं मरणम् ? जीवस्य किं लक्ष्यम् ? कथं मोक्षावाप्तिः? कः सृष्टे: कर्ता ? किं जीवनस्य कर्तव्यम् ? इत्यादयो विषया: सूक्ष्मेण रूपेण विविच्यन्ते तद् दर्शनम् । अतः समग्रमपि आध्यात्मिकमाधिभौतिकं च विवेचनं दर्शने अन्तर्भवति । सूक्ष्मेक्षिकया तत्त्वार्थदर्शनमेव दर्शनम् इत्यवगन्तव्यम् ।
विस्मयभूते विरञ्चिविरचिते संसारेऽस्मिन् आधिव्याधिपरिपीडितो जराजन्ममरणादिदु:खदावाग्निदग्ध:, अज्ञानान्धतमसनिमीलितनयनः सन् मानव:, तापत्रयविघाताय, मोक्षाधिगमाय, अजस्रं यतते, क्वचित् तस्य मनसि कोऽहम्, कुत आयात:, केयं सृष्टि:, मृत्यो: परं किम्? इति नानातर्कवितर्कविचारा: जाग्रति । एभि: प्रश्नै: परिपिड्यमान: तत्त्वानुसन्धाने यदा नचिकेता: (अज्ञात:) निर्मलमना: सन् प्रवर्तते तदा तस्मिन् अन्तर्दृष्टिर्जागर्ति, विवेकस्रोत: उद्घाट्यते, दर्शनस्य तत्त्वदृष्टि: चकास्ति, ततो बुद्धो जायते । वस्तुत: इयं पराविद्या मोक्षमाणानामजिह्मा राजपद्धतिर्विद्यते ।
|